गंध - GANDHA - 香 - SCENT
॥ नमः सर्वज्ञाय ॥
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः तांश्च स्वभावशून्यान्पश्यति स्म । इह शरिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः । तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपार्यासातिक्रान्तो निष्ठनिर्वाणः । त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः । तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा । इति प्रज्ञापारमिताहृदयं समाप्तं ॥
般若波羅密多心經 - 唐•三藏法師玄奘譯
觀自在菩薩 行深般若波羅蜜多時 照見五蘊皆空 度一切苦厄 舍利子 色不異空 空不異色 色即是空 空即是色 受想行識亦復如是 舍利子 是諸法空相 不生不滅 不垢不淨 不增不減 是故空中無色無受想行識 無眼耳鼻舌身意 無色聲香味 觸法 無眼界乃至無意識界 無無明亦無無明盡 乃至無老死亦無老死盡 無苦集滅道無智亦無得 以無所得故 菩提薩埵依般若波羅蜜多故心無罣礙 無罣礙故無有恐怖遠離顛倒夢想究竟涅槃 三世諸佛依般若波羅蜜多故得阿耨多羅三藐三菩提 故知般若波羅蜜多 是大神咒 是大明咒 是無上咒 是無等等咒 能除一切苦 真實不虛 故說般若波羅蜜多咒 即說咒曰 揭諦揭諦波羅揭諦波羅僧揭諦菩提薩婆訶
- Sanskrit in Devanagari script: प्रज्ञापारमिताहृदय
- IAST (International Alphabet of Sanskrit Transliteration) : Prajñā-pāramitā-hṛdaya
- ZH: 般若波羅蜜多心經 / 般若波羅密多心經
- JP: 仏説摩訶般若波羅蜜多心経 / 般若波羅蜜多心経 / 般若心経
- EN: Prajnaparamita Hrdaya / Heart Sutra / Essence of Wisdom Sutra
[gandha]